|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.221. अध्यायः 221
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
ईश्वरेण पार्वतींप्रति प्राणिनामङ्गविकृत्यनपत्यतादिदोषहेतुभूतदुष्कर्मप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्देवदेवेश भूतपाल नमोस्तु ते।
ह्रस्वाङ्गाश्चैव वक्राङ्गाः कुब्जा वामनकास्तथा॥ 13-221-1(90075)
अपरे मानुषा देव दृश्यन्ते कुणिबाहवः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-2(90076)
महेश्वर उवाच। 13-221-3x(7543)
ये पुरा मनुजा देवि लोभमोहसमन्विताः।
धान्यमानान्विकुर्वन्ति क्रयविक्रयकारणात्॥ 13-221-3(90077)
कुलदोषं तदा देवि धृतमानेषु नित्यशः।
अर्धापकर्षणं चैव सर्वेषां क्रयविक्रये॥ 13-221-4(90078)
अङ्गदोषकरा ये तु परेषां कोपकारणात्।
मांसादाश्चैव ये मूर्खा अयथावत्प्रथाः सदा॥ 13-221-5(90079)
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
ह्रस्वाङ्गा वामनाश्चैव कुब्जाश्चैव भवन्ति ते॥ 13-221-6(90080)
उमोवाच। 13-221-7x(7544)
भगवन्मानुषाः केचिद्दृश्यन्ते मानुषेषु वै।
उन्मत्ताश्च पिशाचाश्च पर्यटन्तो यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-7(90081)
महेश्वर उवाच। 13-221-8x(7545)
ये पुरा मनुजा देवि दर्पाहंकारसंयुताः।
बहुधा प्रलपन्त्येव हसन्ति च परान्भृशम्॥ 13-221-8(90082)
मोहयन्ति परान्भोगैर्मदनैर्लोभकारणात्।
वृद्धान्गुरूंश्च ये मूर्खा वृथैवापहसन्ति च।
शौण्डा विदग्धाः शास्त्रेषु सदैवानृतवादिनः॥ 13-221-9(90083)
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
उन्मत्ताश्च पिशाचाश्च भवन्त्येव न संशयः॥ 13-221-10(90084)
उमोवाच। 13-221-11x(7546)
भगवन्मानुषाः केचिन्निरपत्याः सुदुःखिताः।
यतन्तो न लभन्त्येव अपत्यानि यतस्ततः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-11(90085)
महेश्वर उवाच। 13-221-12x(7547)
ये पुरा मनुजा देवि सर्वप्राणिषु निर्दयाः।
घ्नन्ति बालांश्च भुञ्जन्ते मृगाणां पक्षिणामपि॥ 13-221-12(90086)
गुरुविद्वेषिणश्चैव परपुत्राभ्यसूयकाः।
पितृपूजां न कुर्वन्ति यथोक्तां चाष्टकादिभिः॥ 13-221-13(90087)
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
मानुष्यं वा चिरात्प्राप्य निरपत्या भवन्ति ते।
पुत्रशोकयुताश्चापि नास्ति तत्र विचारणा॥ 13-221-14(90088)
उमोवाच। 13-221-15x(7548)
भगवन्मानुषाः केचित्प्रदृश्यन्ते सुदुःखिताः।
उद्वेगवासनिरताः सोद्वेगाश्च यतव्रताः॥ 13-221-15(90089)
नित्यं शोकसमाविष्टा दुर्गताश्च तथैव च।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-16(90090)
महेश्वर उवाच। 13-221-17x(7549)
ये पुरा मनुजा नित्यमुत्क्रोशनपरायणाः।
भीषयन्ति परानित्यं विकुर्वन्ति तथैव च॥ 13-221-17(90091)
ऋणवृद्धिकराश्चैव दरिद्रेभ्यो यथेष्टतः।
ऋणार्थमभिगच्छन्ति सततं वृद्धिरूपकाः॥ 13-221-18(90092)
उद्विजन्ते हि तान्दृष्ट्वा धारकाः स्वार्थकारणात्।
अतिवृद्धिर्न कर्तव्या दरिद्रेभ्यो यथेष्टतः॥ 13-221-19(90093)
ये श्वभिः क्रीडमानाश्च त्रासयन्ति वने मृगान्।
प्राणिहिंसां तथा देवि कुर्वन्ति च यतस्ततः॥ 13-221-20(90094)
येषां गृहेषु वै श्वानस्त्रासयन्ति वृथा नरान्।
एवंयुक्तसमाचाराः कालधर्मगताः पुनः॥ 13-221-21(90095)
पीडिता यमदण्डेन निरयस्थाश्चिरं प्रिये।
कथञ्चित्प्राप्य मानुष्यं तत्र ते दुःखसंयुताः॥ 13-221-22(90096)
कुदेशे दुःखभूयिष्ठे व्याघातशतसङ्कुले।
जायन्ते तत्र शोचन्तः सोद्वेगाश्च यतस्ततः॥ 13-221-23(90097)
उमोवाच। 13-221-24x(7550)
भगवन्मानुषाः केचिदैश्वर्यज्ञानसंयुताः।
म्लेच्छभूमिषु दृश्यन्ते म्लेच्छैश्वर्यसमन्विताः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-24(90098)
महेश्वर उवाच। 13-221-25x(7551)
ये पुरा मनुजा देवि धनधान्यसमन्विताः।
अयथावत्प्रयच्छन्ति श्रद्धावर्जितमेव वा॥ 13-221-25(90099)
अपात्रेभ्यश्च ये दानं शौचमङ्गलवर्जिताः।
ददत्येव च ये मूर्खाः श्लाघयाऽवज्ञयाऽपि वा॥ 13-221-26(90100)
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने।
कुदेशे म्लेच्छभूयिष्ठे दुर्गमे वनसंकटे।
म्लेच्छाधिपत्यं सम्प्राप्य जायन्ते तत्रतत्र वै॥ 13-221-27(90101)
उमोवाच। 13-221-28x(7552)
भगवन्भगनेत्रघ्न मानुषेषु च केचन।
क्लीबा नपुंसकाश्चैव दृश्यन्ते षण्डकास्तथा॥ 13-221-28(90102)
नीचकर्मरता नीचा नीचसक्यास्तथा भुवि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-221-29(90103)
महेश्वर उवाच। 13-221-30x(7553)
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम्॥ 13-221-30(90104)
ये पुरा मनुजा भूत्वा घोरकर्मरतास्तथा।
पशुपंस्त्वोपगातेन जीवन्ति च रमन्ति च॥ 13-221-31(90105)
पुंस्त्वोपघातिनश्चैव नराणां कोपकारणात्।
ये धूर्ताः स्त्रीषु गच्छन्ति अयथावद्यथेष्टतः॥ 13-221-32(90106)
कामविघ्नकरा ये तु द्वेषपैशुन्यकारणात्।
एवंयुक्तसमाचाराः कालधर्मं गतास्तु ते।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये॥ 13-221-33(90107)
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
क्लीबा वर्षवराश्चैव षण्डकाश्च भवन्ति ते॥ 13-221-34(90108)
नीचकर्मपरा लोके निर्लज्जा वीतसम्भ्रमाः।
परान्दीनान्बहिष्कृत्य ते भवन्ति स्वकर्मणा॥ 13-221-35(90109)
यदि चेत्सम्प्रपश्येरंस्ते मुच्यन्ते हि कल्मषात्।
अत्रापि ते प्रमाद्येयुः पतन्ति नरकालये॥ 13-221-36(90110)
स्त्रीणामपि तथा देवि यथा पुंसां तु कर्मजम्।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ ॥ 13-221-37(90111)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः॥ 221 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|